भगतसिंहः स्वतन्त्रभारताय स्वप्राणाहूतिं दत्वा अमरः अभवत्। कश्चन सायंकालः त्रिवर्षीयः कश्चन बालकः स्वपित्रा सह विहारं कुर्वन् आसीत्। सम्भाषणं कुर्वन्तः ते ग्रामसीमां प्राप्तवन्तः। तत्र सस्यानां हरितवर्णेन परिसरः आह्लादकारः दृश्यता स्म। भाषणं कुर्वन्तिः ते एकं सस्यक्षेत्रं प्राप्तवन्तः। बालकस्य आगमनशब्दः न श्रूयते इति पिता परिवृत्य दृष्टवान्। बालकः क्षेत्रे उपविश्य किमपि खनति स्म।
– “किंतु करोति वत्स?” इति पिता पृष्टवान्।
– “पश्य तात! अस्मिन् क्षेत्रे अहं सर्वविधसस्यानि सफलानि करोमि।” इति बालकः उक्तवान्।
तस्य बालकस्य नयनद्वयं द्योतते स्म। क्षेत्रे अवश्यं फलं प्राप्तोमि इति विश्वासः तस्य वचनेषु ध्वन्यते स्म। तस्य स्वरेण तौ ज्येष्ठौ आश्चर्यान्वितौ अभवताम्। सः बालकः एव भगतसिंहः अनन्तरकाले मातृभूमिं स्वतन्त्रं कर्तुं वीरोचितं युद्धं कृतवान् अयं समरसिंहः।
पञ्जाबप्रान्ते लाहोरजनपदे बङ्गा- इतिग्रामे सरदारकिशनसिंहः इत्येतस्य वीरपुरूषस्य वंशजाः तत्र निवसन्ति स्म। तस्मिन् वंशे अनेके वीराः आङ्ग्लेभ्यः भारतस्य विमोचनं कारयितुं युद्धं कृतवन्तः।
बालके भगतसिंहे सर्वे स्निह्यन्ति स्म। अग्रे कदाचित् एषः बालकः प्रसिद्धो भविष्यतिति सर्वे परस्परं कथ्यन्ति सम। तस्य मातुः जीवनं वैधव्यात् आरम्भतः अपि कष्टयुक्तं यातम्। क्रान्तिकारी तस्याः पतिः सर्वदा अज्ञाततया पर्यटन् गृहतः दूर एव भवति सम।
भगतसिंहस्य कनिष्ठपितृव्यौ आस्ताम्। तयोः स्वरणसिंहम् आङ्ग्लेयाः द्वितीयपर्यायार्थं कारगारं प्रेषितवन्तः। कारगारजीवनं दुर्भरम् आसीत्। अतः स्वरणसिंहः रोगग्रस्तः अभवत्। कारगारतः विमोचनान्तरमपि तस्य स्वास्थ्यं सम्यक् नाऽभवत्।
कतिपयदिनेषु सः दिवङ्गतः। दोषिणां विषये न्यायालये वादप्रतिवादमारब्धम्। तेषु दिनेषु राजनैतिककारणैः बद्धानां विषये अधिकरिणः सम्यक् न व्यवहरन्ति स्म। तेभ्यः उत्तमं भोजनं न ददति स्म। तान् अनेकधा पीडयन्ति स्म। भगतसिंहः तस्य अनुचराश्च ताद्वशलज्जास्पदानां कार्याणां विषये सङ्घर्षं कर्तुं निश्चितवन्तः।
धन्यवादः
नीरजकुमारः
परास्नातक-संस्कृतः – द्वितीयवर्षः